ॐ अंबीजरूपवते नमः । अःस्वरूपाय । स्वरमयाय ।
सर्वस्वरपरात्मकाय । अंअःस्वरूपमन्त्राङ्गाय । कलिकालनिवर्तकाय ।
कर्मैकवरदाय । कर्मसाक्षिणे । कल्मषनाशनाय । कचध्वंसिने ।
कपिलाय । कनकाचलचारकाय । कान्ताय । कामाय । कपये । क्रूराय ।
कीराय । केशीनिषूदनाय (केशीनिसूदनाय) । कृष्णाय नमः । ५२० ।
ॐ कापालिकाय नमः । कुब्जाय । कमलाश्रयणाय । कुलिने । कपालमोचकाय ।
काशाय । काश्मीरघनसारभृते । कूजत्किन्नरगीतेष्टाय । कुरुराजाय ।
कुलन्धराय । कुवासिने । कुलकौलेशाय । ककाराक्षरमण्डनाय ।
खवासिने । खेटकेशानाय । खड्गमुण्डधराय । खगाय । खगेश्वराय ।
खचराय । खेचरीगणसेविताय नमः । ५४० ।
ॐ खरांशवे नमः । खेटकधराय । खलहर्त्रे । खवर्णकाय ।
गन्त्रे । गीतप्रियाय । गेयाय । गयावासिने । गणाश्रयाय । गुणातीताय ।
गोलगतये । गुच्छलाय । गुणिसेविताय । गदाधराय । गदहराय ।
गाङ्गेयवरदाय । प्रगिने । गिङ्गिलाय । गटिलाय । गान्ताय नमः । ५६० ।
ॐ गकाराक्षरभास्कराय नमः । घृणिमते । घुर्घुरारावाय ।
घण्टाहस्ताय । घटाकराय । घनच्छन्नाय । घनगतये ।
घनवाहनतर्पिताय । ङान्ताय । ङेशाय । ङकाराङ्गाय ।
चन्द्रकुङ्कुमवासिताय । चन्द्राश्रयाय । चन्द्रधराय ।
अच्युताय । चम्पकसन्निभाय । चामीकरप्रभाय । चण्डभानवे ।
चण्डेशवल्लभाय । चञ्चच्चकोरकोकेष्टाय नमः । ५८० ।
ॐ चपलाय नमः । चपलाश्रयाय । चलत्पताकाय । चण्डाद्रये ।
चीवरैकधराय । अचराय । चित्कलावर्धिताय । चिन्त्याय ।
चिन्ताध्वंसिने । चवर्णवते । छत्रभृते । छलहृते । छन्दसे ।
च्छुरिकाच्छिन्नविग्रहाय । जाम्बूनदाङ्गदाय । अजाताय । जिनेन्द्राय ।
जम्बुवल्लभाय । जम्बारये । जङ्गिटाय नमः । ६०० ।
ॐ जङ्गिने नमः । जनलोकतमोऽपहाय । जयकारिणे । जगद्धर्त्रे ।
जरामृत्युविनाशनाय । जगत्त्रात्रे । जगद्धात्रे । जगद्ध्येयाय ।
जगन्निधये । जगत्साक्षिणे । जगच्चक्षुषे । जगन्नाथप्रियाय ।
अजिताय । जकाराकारमुकुटाय । झञ्जाछन्नाकृतये । झटाय ।
झिल्लीश्वराय । झकारेशाय । झञ्जाङ्गुलिकराम्बुजाय ।
झञाक्षराञ्चिताय नमः । ६२० ।
ॐ टङ्काय नमः । टिट्टिभासनसंस्थिताय । टीत्काराय ।
टङ्कधारिणे । ठःस्वरूपाय । ठठाधिपाय । डम्भराय ।
डामरवे । डिण्डिने । डामरीशाय । डलाकृतये । डाकिनीसेविताय ।
डाढिने । डढगुल्फाङ्गुलिप्रभाय । णेशप्रियाय । णवर्णेशाय ।
णकारपदपङ्कजाय । ताराधिपेश्वराय । तथ्याय ।
तन्त्रीवादनतत्पराय नमः । ६४० ।
ॐ त्रिपुरेशाय नमः । त्रिनेत्रेशाय । त्रयीतनवे । अधोक्षजाय । तामाय ।
तामरसेष्टाय । तमोहर्त्रे । तमोरिपवे । तन्द्राहर्त्रे । तमोरूपाय ।
तपसां फलदायकाय । तुट्यादिकलनाकान्ताय । तकाराक्षरभूषणाय ।
स्थाणवे । स्थलिने । स्थिताय । नित्याय । स्थविराय । स्थण्डिलाय ।
स्थिराय – स्थूलाय नमः । ६६० ।
ॐ थकारजानवे नमः । अध्यात्मने । देवनायकनायकाय । दुर्जयाय ।
दुःखघ्ने । दात्रे । दारिद्र्यच्छेदनाय । दमिने । दौर्भाग्यहर्त्रे ।
देवेन्द्राय । द्वादशाराब्जमध्यगाय । द्वादशान्तैकवसतये ।
द्वादशात्मने । दिवस्पतये । दुर्गमाय । दैत्यशमनाय । दूरगाय ।
दुरतिक्रमाय । दुर्ध्येयाय । दुष्टवंशघ्नाय नमः । ६८० ।
ॐ दयानाथाय नमः । दयाकुलाय । दामोदराय । दीधितिमते ।
दकाराक्षरमातृकाय । धर्मबन्धवे । धर्मनिधये । धर्मराजाय ।
धनप्रदाय । धनदेष्टाय । धनाध्यक्षाय । धरादर्शाय ।
धुरन्धराय । धूर्जटीक्षणवासिने । धर्मक्षेत्राय । धराधिपाय ।
धाराधराय । धुरीणाय । धर्मात्मने । धर्मवत्सलाय नमः । ७०० ।
ॐ धराभृद्वल्लभाय नमः । धर्मिणे । धकाराक्षरभूषणाय ।
नर्मप्रियाय । नन्दिरुद्राय । नेत्रे । नीतिप्रियाय । नयिने ।
नलिनीवल्लभाय । नुन्नाय । नाट्यकृते । नाट्यवर्धनाय । नरनाथाय ।
नृपस्तुत्याय । नभोगामिने । नमःप्रियाय । नमोऽन्ताय । नमितारातये ।
नरनारायणाश्रयाय । नारायणाय नमः । ७२० ।
ॐ नीलरुचये नमः । नम्राङ्गाय । नीललोहिताय । नादरूपाय । नादमयाय ।
नादबिन्दुस्वरूपकाय । नाथाय । नागपतये । नागाय । नगराजाश्रिताय ।
नगाय । नाकस्थिताय । अनेकवपुषे । नकाराक्षरमातृकाय ।
पद्माश्रयाय । परस्मै ज्योतिषे । पीवरांसाय । पुटेश्वराय ।
प्रीतिप्रियाय । प्रेमकराय नमः । ७४० ।
ॐ प्रणतार्तिभयापहाय नमः । परत्रात्रे । पुरध्वंसिने । पुरारये ।
पुरसंस्थिताय । पूर्णानन्दमयाय । पूर्णतेजसे । पूर्णेश्वरीश्वराय ।
पटोलवर्णाय । पटिम्ने । पाटलेशाय । परात्मवते । परमेशवपुषे ।
प्रांशवे । प्रमत्ताय । प्रणतेष्टदाय । अपारपारदाय । पीनाय ।
पीताम्बरप्रियाय । पवये नमः । ७६० ।
ॐ पाचनाय नमः । पिचुलाय । प्लुष्टाय । प्रमदाजनसौख्यदाय ।
प्रमोदिने । प्रतिपक्षघ्नाय । पकाराक्षरमातृकाय । भोगापवर्गस्य
फलाय । फलिनीशाय । फलात्मकाय । फुल्लदम्भोजमध्यस्थाय ।
फुल्लदम्भोजधारकाय । स्फुटज्ज्योतिषे – द्योतये । स्फुटाकाराय ।
स्फटिकाचलचारकाय । स्फूर्जत्किरणमालिने । फकाराक्षरपार्श्वकाय ।
बालाय । बलप्रियाय । बान्ताय नमः । ७८० ।
ॐ बिलध्वान्तहराय नमः । बलिने । बालादये । बर्बरध्वंसिने ।
बब्बोलामृतपानकाय । बुधाय । बृहस्पतये । वृक्षाय ।
बृहदश्वाय । बृहद्गतये । बपृष्ठाय । भीमरूपाय । भामयाय ।
भेश्वरप्रियाय । भगाय । भृगवे । भृगुस्थायिने । भार्गवाय ।
कविशेखराय । भाग्यदाय नमः । ८०० ।
ॐ भानुदीप्ताङ्गाय नमः । भनाभये । भमातृकाय । महाकालाय ।
महाध्यक्षाय । महानादाय । महामतये । महोज्ज्वलाय । मनोहारिणे ।
मनोगामिने । मनोभवाय । मानदाय । मल्लघ्ने । मल्लाय ।
मेरुमन्दरमन्दिराय । मन्दारमालाभरणाय । माननीयाय । मनोमयाय ।
मोदिताय । मदिराहाराय नमः । ८२० ।
ॐ मार्तण्डाय नमः । मुण्डमुण्डिताय । महावराहाय । मीनेशाय । मेषगाय ।
मिथुनेष्टदाय । मदालसाय । अमरस्तुत्याय । मुरारिवरदाय । मनवे ।
माधवाय । मेदिनीशाय । मधुकैटभनाशनाय । माल्यवते । मेघनाय ।
माराय । मेधाविने । मुसलायुधाय । मुकुन्दाय । मुररीशानाय नमः । ८४० ।
ॐ मरालफलदाय नमः । मदाय । मोदनाय मदनाय । मोदकाहाराय ।
मकाराक्षरमातृकाय । यज्वने । यज्ञेश्वराय । यान्ताय । योगिनां
हृदयस्थिताय । यात्रिकाय । यज्ञफलदाय । यायिने । यामलनायकाय ।
योगनिद्राप्रियाय । योगकारणाय । योगिवत्सलाय । यष्टिधारिणे ।
यन्त्रेशाय । योनिमण्डलमध्यगाय । युयुत्सुजयदाय नमः । ८६० ।
ॐ योद्ध्रे नमः । युगधर्मानुवर्तकाय । योगिनीचक्रमध्यस्थाय ।
युगलेश्वरपूजिताय । यान्ताय । यक्षैकतिलकाय । यकाराक्षरभूषणाय ।
रामाय । रमणशीलाय । रत्नभानवे । उरुप्रियाय । रत्नमौलिने ।
रत्नतुङ्गाय । रत्नपीठान्तरस्थिताय । रत्नांशुमालिने । रत्नाढ्याय ।
रत्नकङ्कणनूपुराय । रत्नाङ्गदलसद्बाहवे । रत्नपादुकामण्डिताय ।
रोहिणीशाश्रयाय नमः । ८८० ।
ॐ रक्षाकराय नमः । रात्रिञ्चरान्तकाय । रकाराक्षररूपाय ।
लज्जाबीजाश्रिताय । लवाय । लक्ष्मीभानवे । लतावासिने । लसत्कान्तये ।
लोकभृते । लोकान्तकहराय । लामावल्लभाय । लोमशाय । अलिगाय ।
लिङ्गेश्वराय । लिङ्गनादाय । लीलाकारिणे । ललम्बुसाय । लक्ष्मीवते ।
लोकविध्वंसिने । लकाराक्षरभूषणाय नमः । ९०० ।
ॐ वामनाय नमः । वीरवीरेन्द्राय । वाचालाय । वाक्पतिप्रियाय ।
वाचामगोचराय । वान्ताय । वीणावेणुधराय । वनाय । वाग्भवाय ।
वालिशध्वंसिने । विद्यानायकनायकाय । वकारमातृकामौलये ।
शाम्भवेष्टप्रदाय । शुकाय । शशिने । शोभाकराय । शान्ताय ।
शान्तिकृते । शमनप्रियाय । शुभङ्कराय नमः । ९२० ।
ॐ शुक्लवस्त्राय नमः । श्रीपतये । श्रीयुताय । श्रुताय ।
श्रुतिगम्याय । शरद्बीजमण्डिताय । शिष्टसेविताय । शिष्टाचाराय ।
शुभाचाराय । शेषाय । शेवालताडनाय । शिपिविष्टाय । शिबये ।
शुक्रसेव्याय । शाक्षरमातृकाय । षडाननाय । षट्करकाय ।
षोडशस्वरभूषिताय । षट्पदस्वनसन्तोषिने । षडाम्नायप्रवर्तकाय नमः । ९४० ।
ॐ षड्रसास्वादसन्तुष्टाय नमः । षकाराक्षरमातृकाय । सूर्यभानवे ।
सूरभानवे । सूरिभानवे । सुखाकराय । समस्तदैत्यवंशघ्नाय ।
समस्तसुरसेविताय । समस्तसाधकेशानाय । समस्तकुलशेखराय ।
सुरसूर्याय । सुधासूर्याय । स्वःसूर्याय । साक्षरेश्वराय । हरित्सूर्याय ।
हरिद्भानवे । हविर्भुजे । हव्यवाहनाय । हालासूर्याय । होमसूर्याय नमः । ९६० ।
ॐ हुतसूर्याय नमः । हरीश्वराय । ह्रांबीजसूर्याय । ह्रींसूर्याय ।
हकाराक्षरमातृकाय । ळंबीजमण्डिताय । सूर्याय । क्षोणीसूर्याय ।
क्षमापतये । क्षुत्सूर्याय । क्षान्तसूर्याय । ळङ्क्षःसूर्याय ।
सदाशिवाय । अकारसूर्याय । क्षःसूर्याय । सर्वसूर्याय । कृपानिधये ।
भूःसूर्याय । भुवःसूर्याय । स्वःसूर्याय नमः । ९८० ।
ॐ सूर्यनायकाय नमः । ग्रहसूर्याय । ऋक्षसूर्याय । लग्नसूर्याय ।
महेश्वराय । राशिसूर्याय । योगसूर्याय । मन्त्रसूर्याय । मनूत्तमाय ।
तत्त्वसूर्याय । परासूर्याय । विष्णुसूर्याय । प्रतापवते । रुद्रसूर्याय ।
ब्रह्मसूर्याय । वीरसूर्याय । वरोत्तमाय । धर्मसूर्याय । कर्मसूर्याय ।
विश्वसूर्याय नमः । विनायकाय नमः । १००० ।
॥ इति सूर्य सहस्रनाम सम्पूर्ण ॥
इन्हे भी पढ़ें-
सूर्य अष्टकम
श्री सूर्य अर्घ्य विधि