Surya Sahasranaam भगवान सूर्य के एक हजार दिव्य नामों का पवित्र स्तोत्र है, जिसमें उनके विभिन्न स्वरूपों, गुणों और महिमा का वर्णन किया गया है। धार्मिक मान्यता के अनुसार, श्रद्धापूर्वक सूर्य सहस्रनाम का पाठ करने से सूर्य देव की कृपा प्राप्त होती है, आत्मबल, तेज, सकारात्मक ऊर्जा और आध्यात्मिक उन्नति में वृद्धि होती है। रविवार, रथ सप्तमी तथा प्रतिदिन प्रातःकाल सूर्य उपासना के समय इसका पाठ विशेष रूप से शुभ और फलदायी माना जाता है।
श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
ॐह्रांह्रींसःहंसःसोः सूर्याय स्वाहा ।
ॐ सवित्रे नमः । भास्कराय । भगाय । भगवते । सर्वलोकेशाय । भूतेशाय ।
भूतभावनाय । भूतात्मने । सृष्टिकर्त्रे । स्रष्ट्रे । कर्त्रे । हर्त्रे ।
जगत्पतये । आदित्याय । वरदाय । वीराय । वीरलाय । विश्वदीपनाय ।
विश्वकृते । विश्वहृदे नमः । २० ।
ॐ भक्ताय नमः । भोक्त्रे । भीमाय । भयापहाय । विश्वात्मने ।
पुरुषाय । साक्षिणे । परं ब्रह्मणे । परात्पराय । प्रतापवते ।
विश्वयोनये । विश्वेशाय । विश्वतोमुखाय । कामिने । योगिने ।
महाबुद्धये । मनस्विने । मनवे । अव्ययाय । प्रजापतये नमः । ४० ।
ॐ विश्ववन्द्याय नमः । वन्दिताय । भुवनेश्वराय ।
भूतभव्यभविष्यात्मने । तत्त्वात्मने । ज्ञानवते । गुणिने । सात्त्विकाय ।
राजसाय । तामसाय । तमस्विने । करुणानिधये । सहस्रकिरणाय ।
भास्वते । भार्गवाय । भृगवे । ईश्वराय । निर्गुणाय । निर्ममाय ।
नित्याय नमः । ६० ।
ॐ नित्यानन्दाय नमः । निराश्रयाय । तपस्विने । कालकृते । कालाय ।
कमनीयतनवे । कृशाय । दुर्दर्शाय । सुदशाय । दाशाय ।
दीनबन्धवे । दयाकराय । द्विभुजाय । अष्टभुजाय । धीराय ।
दशबाहवे । दशातिगाय । दशांशफलदाय । विष्णवे । जिगीषवे नमः । ८० ।
ॐ जयवते नमः । जयिने । जटिलाय । निर्भयाय । भानवे । पद्महस्ताय ।
कुशीरकाय । समाहितगतये । धात्रे । विधात्रे । कृतमङ्गलाय ।
मार्तण्डाय । लोकधृते । त्रात्रे । रुद्राय । भद्रप्रदाय । प्रभवे ।
अरातिशमनाय । शान्ताय । शङ्कराय नमः । १०० ।
ॐ कमलासनाय नमः । अविचिन्त्यवपवे । श्रेष्ठाय ।
महाचीनक्रमेश्वराय । महार्तिदमनाय । दान्ताय । महामोहहराय ।
हरये । नियतात्मने । कालेशाय । दिनेशाय । भक्तवत्सलाय ।
कल्याणकारिणे । कमठकर्कशाय । कामवल्लभाय । व्योमचारिणे ।
महते । सत्याय । शम्भवे । अम्भोजवल्लभाय नमः । १२० ।
ॐ सामगाय नमः । पञ्चमाय । द्रव्याय । ध्रुवाय । दीनजनप्रियाय ।
त्रिजटाय । रक्तवाहाय । रक्तवस्त्राय । रतिप्रियाय । कालयोगिने ।
महानादाय । निश्चलाय । दृश्यरूपधृषे । गम्भीरघोषाय ।
निर्घोषाय । घटहस्ताय । महोमयाय । रक्ताम्बरधराय । रक्ताय ।
रक्तमाल्यानुलेपनाय नमः । १४० ।
ॐ सहस्रहस्ताय नमः । विजयाय । हरिगामिने । हरीश्वराय । मुण्डाय ।
कुण्डिने । भुजङ्गेशाय । रथिने । सुरथपूजिताय । न्यग्रोधवासिने ।
न्यग्रोधाय । वृक्षकर्णाय । कुलन्धराय । शिखिने । चण्डिने ।
जटिने । ज्वालिने । ज्वालातेजोमयाय । विभवे । हैमाय नमः । १६० ।
ॐ हेमकराय नमः । हारिणे । हरिद्रत्नासनस्थिताय । हरिदश्वाय ।
जगद्वासिने । जगतां पतये । इङ्गिलाय । विरोचनाय । विलासिने ।
विरूपाक्षाय । विकर्तनाय । विनायकाय । विभासाय । भासाय । भासां
पतये । प्रभवे ईत् इस् पतिः अस् पेर् बूक् । मतिमते । रतिमते ।
स्वक्षाय । विशालाक्षाय नमः । १८० ।
ॐ विशाम्पतये नमः । बालरूपाय । गिरिचराय । गीर्पतये । गोमतीपतये ।
गङ्गाधराय । गणाध्यक्षाय । गणसेव्याय । गणेश्वराय ।
गिरीशनयनावासिने । सर्ववासिने । सतीप्रियाय । सत्यात्मकाय ।
सत्यधराय । सत्यसन्धाय । सहस्रगवे । अपारमहिम्ने । मुक्ताय ।
मुक्तिदाय । मोक्षकामदाय नमः । २०० ।
ॐ मूर्तिमते नमः । दुर्धराय । अमूर्तये । त्रुटिरूपाय । लवात्मकाय ।
प्राणेशाय । व्यानदाय । अपानसमानोदानरूपवते । चषकाय ।
घटिकारूपाय । मुहूर्ताय । दिनरूपवते । पक्षाय । मासाय । ऋतवे ।
वर्षाय । दिनकालेश्वरेश्वराय । अयनाय । युगरूपाय । कृताय नमः । २२० ।
ॐ त्रेतायुगाय नमः । त्रिपादे । द्वापराय । कलये । कालाय । कालात्मने ।
कलिनाशनाय । मन्वन्तरात्मकाय । देवाय । शक्राय । त्रिभुवनेश्वराय ।
वासवाय । अग्नये । यमाय । रक्षसे । वरुणाय । यादसां पतये ।
वायवे । वैश्रवणाय । शैव्याय नमः । २४० ।
ॐ गिरिजाय नमः । जलजासनाय । अनन्ताय । अनन्तमहिम्ने । परमेष्ठिने ।
गतज्वराय । कल्पान्तकलनाय । क्रूराय । कालाग्नये । कालसूदनाय ।
महाप्रलयकृते । कृत्याय । कुत्याशिने । युगवर्तनाय । कालावर्ताय ।
युगधराय । युगादये । शहकेश्वराय । आकाशनिधिरूपाय ।
सर्वकालप्रवर्तकाय नमः । २६० ।
ॐ अचिन्त्याय नमः । सुबलाय । बालाय । बलाकावल्लभाय । वराय ।
वरदाय । वीर्यदाय । वाग्मिने । वाक्पतये । वाग्विलासदाय ।
साङ्ख्येश्वराय । वेदगम्याय । मन्त्रेशाय । तन्त्रनायकाय ।
कुलाचारपराय । नुत्याय । नुतितुष्टाय । नुतिप्रियाय । अलसाय ।
तुलसीसेव्याय नमः । २८० ।
ॐ स्तुष्टाय नमः । रोगनिबर्हणाय । प्रस्कन्दनाय । विभागाय । नीरागाय ।
दशदिक्पतये । वैराग्यदाय । विमानस्थाय । रत्नकुम्भधरायुधाय ।
महापादाय । महाहस्ताय । महाकायाय । महाशयाय । ऋग्यजुःसामरूपाय ।
अथर्वणशाखिनः त्वष्ट्रे । सहस्रशाखिने । सद्वृक्षाय ।
महाकल्पप्रियाय । पुंसे । कल्पवृक्षाय नमः । ३०० ।
ॐ मन्दाराय नमः । मन्दराचलशोभनाय । मेरवे । हिमालयाय । मालिने ।
मलयाय । मलयद्रुमाय । सन्तानकुसुमच्छन्नाय । सन्तानफलदाय ।
विराजे । क्षीराम्भोधये । घृताम्भोधये । जलधये । क्लेशनाशनाय ।
रत्नाकराय । महामान्याय । वैण्याय । वेणुधराय । वणिजे । वसन्ताय नमः । ३२० ।
ॐ मारसामन्ताय नमः । ग्रीष्माय । कल्मषनाशनाय । वर्षाकालाय ।
वर्षपतये । शरदम्भोजवल्लभाय । हेमन्ताय । हेमकेयूराय ।
शिशिराय । शिशुवीर्यदाय । सुमतये । सुगतये । साधवे । विष्णवे ।
साम्बाय । अम्बिकासुताय । सारग्रीवाय । महाराजाय । सुनन्दाय ।
नन्दिसेविताय नमः । ३४० ।
ॐ सुमेरुशिखरावासिने नमः । सप्तपातालगोचराय । आकाशचारिणे ।
नित्यात्मने । विभुत्वविजयप्रदाय । कुलकान्ताय । कुलाधीशाय । विनयिने ।
विजयिने । वियदे । विश्वम्भराय । वियच्चारिणे । वियद्रूपाय ।
वियद्रथाय । सुरथाय । सुगतस्तुत्याय । वेणुवादनतत्पराय । गोपालाय ।
गोमयाय । गोप्त्रे नमः । ३६० ।
ॐ प्रतिष्ठायिने नमः । प्रजापतये । आवेदनीयाय । वेदाक्षाय ।
महादिव्यवपवे । सुराजे । निर्जीवाय । जीवनाय । मन्त्रिणे ।
महार्णवनिनादभृते । वसवे । आवर्तनाय । नित्याय । सर्वाम्नायप्रभवे ।
सुधिये । न्यायनिर्वापणाय । शूलिने । कपालिने । पद्ममध्यगाय ।
त्रिकोणनिलयाय नमः । ३८० ।
ॐ चेत्याय नमः । बिन्दुमण्डलमध्यगाय । बहुमालाय ।
महामालाय । दिव्यमालाधराय । जपाय । जपाकुसुमसङ्काशाय ।
जपपूजाफलप्रदाय । सहस्रमूर्ध्ने । देवेन्द्राय । सहस्रनयनाय ।
रवये । सर्वतत्त्वाश्रयाय । ब्रध्नाय । वीरवन्द्याय । विभावसवे ।
विश्वावसवे । वसुपतये । वसुनाथाय । विसर्गवते नमः । ४०० ।
ॐ आदये नमः । आदित्यलोकेशाय । सर्वगामिने । कलाश्रयाय । भोगेशाय ।
देवदेवेन्द्राय । नरेन्द्राय । हव्यवाहनाय । विद्याधरेशाय ।
विद्येशाय । यक्षेशाय । रक्षणाय । गुरवे । रक्षःकुलैकवरदाय ।
गन्धर्वकुलपूजिताय । अप्सरोवन्दिताय । अजय्याय । जेत्रे ।
दैत्यनिबर्हणाय । गुह्यकेशाय नमः । ४२० ।
ॐ पिशाचेशाय नमः । किन्नरीपूजिताय । कुजाय । सिद्धसेव्याय ।
समाम्नायाय । साधुसेव्याय । सरित्पतये । ललाटाक्षाय । विश्वदेहाय ।
नियमिने । नियतेन्द्रियाय । अर्काय । अर्ककान्तरत्नेशाय । अनन्तबाहवे ।
अलोपकाय । अलिपात्रधराय । अनङ्गाय । अम्बरेशाय । अम्बराश्रयाय ।
अकारमातृकानाथाय नमः । ४४० ।
ॐ देवानामादये नमः । आकृतये । आरोग्यकारिणे । आनन्दविग्रहाय ।
निग्रहाय । ग्रहाय । आलोककृते । आदित्याय । वीरादित्याय । प्रजाधिपाय ।
आकाशरूपाय । स्वाकाराय । इन्द्रादिसुरपूजिताय । इन्दिरापूजिताय । इन्दवे ।
इन्द्रलोकाश्रयस्थिताय – इनाय । ईशानाय । ईश्वराय । चन्द्राय ।
ईशाय नमः । ४६० ।
ॐ ईकारवल्लभाय नमः । उन्नतास्याय । उरुवपुषे । उन्नताद्रिचराय ।
गुरवे । उत्पलाय । उच्चलत्केतवे । उच्चैर्हयगतये । सुखिने ।
उकाराकारसुखिताय । ऊष्मायै । निधये । ऊषणाय । अनूरुसारथये ।
उष्णभानवे । ऊकारवल्लभाय । ऋणहर्त्रे । ॠलिहस्ताय ।
ऋॠभूषणभूषिताय । ऌप्ताङ्गाय नमः । ४८० ।
ॐ ल्^ईमनुस्थायिने नमः । ऌॡगण्डयुगोज्ज्वलाय । एणाङ्कामृतदाय ।
चीनपट्टभृते । बहुगोचराय । एकचक्रधराय । एकाय ।
अनेकचक्षुषे । ऐक्यदाय । एकारबीजरमणाय । एऐओष्ठामृताकराय ।
ओङ्कारकारण्ं ब्रह्मणे । औकाराय । औचित्यमण्डनाय । ओऔदन्तालिरहिताय ।
महिताय । महतां पतये । अंविद्याभूषणाय । भूष्याय । लक्ष्मीशाय नमः । ५०० ।