🕉
Bhakti
आपकी भक्ति यात्रा का केंद्र
  • मुख्य पृष्ठ
  • चालीसा संग्रह
  • आरती संग्रह
  • स्तुति संग्रह
  • Blog
🕉
श्री गणेश जी

श्री उच्छिष्ट गणेश स्तवराज / Shri Ganesh Stvaraj

22 June 2026

नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥१॥

केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं वहन्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥२॥

षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥

वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेमास्यं नवचन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥

भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः ।
गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥५॥

शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥६॥

पितुर्जटाजूटतटे विलोक्य भागीरथीं तत्र कुतूहलेन ।
विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥७॥

लम्बोदरो देवकुमारसङ्गैः क्रीडन् कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥८॥

आगत्य योच्चैर्हरिनाभिपद्यं ददर्श तत्राशु करेण तच्च ।
उध्दतुर्छन्विधिच्चाटुवाक्यं श्रुत्वा मुमोचावतु नो गणेश: ॥९॥

निरन्तरं संस्कृतदानपट्टे लग्नां तु गुंजद् भ्रमरावलिं वै ।
तां श्रोत्रतालैरपसारयन्तं स्मरेद् गजास्यं निजहृत्सरोजे ॥१०॥

विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥११॥

स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥१२॥

स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः ।
प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥१३॥

तं वामनाङ्गं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं निगमादिकानां लोकैकवन्द्यम् प्रणमामि विघ्नम् ॥१४॥

आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥१५॥

हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः ।
मुनीन्सुरान्भक्तजनांश्च सर्वान् स पातु रथ्यासु सदा गजास्यः ॥१६॥

द्वैपायनोक्तं सुविचार्य येन स्वदन्तकोट्या निखिलं लिखित्वा ।
दत्तं पुराणं सुतमिन्दुमौलेस्तमग्ग्रयरूपं मनसा स्मरामि ॥१७॥

कीडाप्रवृत्ते जलधाविभास्ये वेलाजलेऽथाम्बुपतिः प्रभीतः ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्ट्वन्ति ॥१८ ॥

वाचां निमित्तं ह्यनिमित्तमाद्यं पदं त्रिलोक्यां निखिलस्तुतीनाम् ।
सर्वेश्च वन्द्यो न च तस्य वन्द्य: स्थाणोः परं रूपमसौ स पायात् ॥१९॥

इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः ।
संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥२०॥

॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे श्रीउच्छिष्टगणेशस्तवराजः सम्पूर्णः ॥

← श्री गणेशमहिम्न: स्तोत्र / Shri Ganesh Mahima Stotra
श्री गणेश मंगलाष्टकम् / Shri Ganesh Mangalashtakam →

🕉 श्री गणेश जी के अन्य ग्रंथ

🕉

गणपति अथर्वशीर्ष / Ganapti Atharvashirsh

→
🕉

श्रीगणेशभुजङ्गस्तोत्रम् / Shri Ganesh Bhujanga Stotram

→
🕉

श्री सिद्धिविनायक स्तोत्रम् / Shri Siddhivinayak Stotram

→
📖

श्री गणेश चालीसा / Ganesh Chalisa

→
🕉

संकटनाशन गणेश स्तोत्र / Shri Sankat Nashan Ganesh Stotra

→
🕉

श्री गणेश कवचं / Shri Ganesh Kavacham

→

🔍 खोजें

📚 संग्रह

🙏 स्तुती 21 📖 चालीसा संग्रह 11 🪔 आरती संग्रह 10 🕉 Blog 2

🕉 देवी-देवता

🕉️ श्री हनुमान जी → 🔱 श्री शिव जी → 🪈 श्री कृष्ण जी → 🌸 माँ दुर्गा → 🕉️ श्री गणेश जी → 🏹 श्री राम जी → 🪷 माँ लक्ष्मी →

🕐 हाल की पोस्ट

🕉 सूर्य सहस्रनाम / Surya Sahasranaam 🕉 सूर्यकवचम / Surya Kavacham 🕉 सूर्य अष्टकम / Surya Ashtakam 🪔 श्री सूर्य देव आरती / Shri Surya Dev Aarti 📖 श्री सूर्य देव चालीसा / Shri Surya Dev Chalisa 🕉 जय रामेश्वर जय नागेश्वर वैद्यनाथ केदार हरे / Jai Raneshwar Jai Nageshwar
🕉 Bhakti

आपकी भक्ति यात्रा का केंद्र

हमारे साथ अपनी भक्ति यात्रा को और भी सुंदर बनाएं। यहाँ आपको विभिन्न देवी-देवताओं की चालीसाएँ, आरतियाँ, स्तुतियाँ और त्यौहारों की जानकारी मिलेगी।

देवी-देवता

  • 🕉️ श्री हनुमान जी
  • 🔱 श्री शिव जी
  • 🪈 श्री कृष्ण जी
  • 🌸 माँ दुर्गा
  • 🕉️ श्री गणेश जी
  • 🏹 श्री राम जी

संग्रह

  • 📖 चालीसा संग्रह
  • 🪔 आरती संग्रह
  • 🙏 स्तुति संग्रह
  • 📿 मंत्र संग्रह
  • 📚 कथाएँ

त्यौहार

  • 🎊 नवरात्रि
  • 🪔 दीपावली
  • 🎨 होली
  • 🪈 जन्माष्टमी
  • 🕉️ गणेश चतुर्थी
  • 🔱 महाशिवरात्रि
ॐ © 2026 Bhakti — सर्वाधिकार सुरक्षित | गोपनीयता नीति जय श्री राम 🙏