नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥१॥
केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं वहन्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥२॥
षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेमास्यं नवचन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥
भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः ।
गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥५॥
शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥६॥
पितुर्जटाजूटतटे विलोक्य भागीरथीं तत्र कुतूहलेन ।
विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥७॥
लम्बोदरो देवकुमारसङ्गैः क्रीडन् कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥८॥
आगत्य योच्चैर्हरिनाभिपद्यं ददर्श तत्राशु करेण तच्च ।
उध्दतुर्छन्विधिच्चाटुवाक्यं श्रुत्वा मुमोचावतु नो गणेश: ॥९॥
निरन्तरं संस्कृतदानपट्टे लग्नां तु गुंजद् भ्रमरावलिं वै ।
तां श्रोत्रतालैरपसारयन्तं स्मरेद् गजास्यं निजहृत्सरोजे ॥१०॥
विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥११॥
स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥१२॥
स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः ।
प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥१३॥
तं वामनाङ्गं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं निगमादिकानां लोकैकवन्द्यम् प्रणमामि विघ्नम् ॥१४॥
आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥१५॥
हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः ।
मुनीन्सुरान्भक्तजनांश्च सर्वान् स पातु रथ्यासु सदा गजास्यः ॥१६॥
द्वैपायनोक्तं सुविचार्य येन स्वदन्तकोट्या निखिलं लिखित्वा ।
दत्तं पुराणं सुतमिन्दुमौलेस्तमग्ग्रयरूपं मनसा स्मरामि ॥१७॥
कीडाप्रवृत्ते जलधाविभास्ये वेलाजलेऽथाम्बुपतिः प्रभीतः ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्ट्वन्ति ॥१८ ॥
वाचां निमित्तं ह्यनिमित्तमाद्यं पदं त्रिलोक्यां निखिलस्तुतीनाम् ।
सर्वेश्च वन्द्यो न च तस्य वन्द्य: स्थाणोः परं रूपमसौ स पायात् ॥१९॥
इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः ।
संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥२०॥
॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे श्रीउच्छिष्टगणेशस्तवराजः सम्पूर्णः ॥