🕉
Bhakti
आपकी भक्ति यात्रा का केंद्र
  • मुख्य पृष्ठ
  • चालीसा संग्रह
  • आरती संग्रह
  • स्तुति संग्रह
  • Blog
🕉
श्री गणेश जी

श्री गणेशमहिम्न: स्तोत्र / Shri Ganesh Mahima Stotra

22 June 2026

अनिर्वाच्यं रूपं स्तवननिकरो यत्र गणित-
स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि सदा यत्र विलयः
स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥

गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा,
रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः।
वदन्त्येके शाक्ता जगदुदयमूलां परशिवां,
न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥२॥

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं,
समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।
अजां साङ्ख्यो ब्रूते सकलगुणरूपां च सततं
प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥३॥

कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
र्यथा धीर्यस्य स्यात्स च तदनुरूपो गणपतिः ।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्
धृतिर्ज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥

अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्व: शक्त्या विविधगुणकर्मैकसमये
त्वसङ्ख्यातानन्ताभिमतफलदोऽनेकविषये ॥५॥

न यस्यान्तो मध्यो न च भवति चादिः सुमहता-
मलिप्तः कृत्वेत्थं सकलमपि खंवत् स च पृथक् ।
स्मृतः संस्मतॄणां सकलहृदयस्थः प्रियकरो
नमस्तस्मै देवाय सकलसुरवन्द्याय महते ॥६॥

गणेशाद्यं बीजं दहनवनितापल्लवयुतं
मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदः ।
सबिन्दुश्चाङ्गाद्यां गणकऋषिछन्दोऽस्य च निचृत्,
स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥७॥

गकारो हेरम्बः सगुण इति पुन्निर्गुणमयो,
द्विधाऽप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।
स चेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको,
यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥८॥

गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो
णकारः कण्ठाधो जठरसदृशाकार इति च ।
अधोभागः कट्यां चरण इति हीशोऽस्य च तनु-
र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवः सुवः ॥९॥

गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं,
सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् ।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं,
न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥

गणेशेत्याह्वां यः प्रवदति मुहुस्तस्य पुरतः,
प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नाम्नास्य भवति,
प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥

गणेशो विश्वेऽस्मिन्स्थित इह च विश्वं गणपतौ
गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् ।
समुक्तं नामैकं गणपतिपदं मङ्गलमयं
तदेकास्यं दृष्टेः सकलविबुधास्येक्षणसमम् ॥१२॥

बहुक्लेशैर्व्याप्तैः स्मृत उत गणेशे च हृदये,
क्षणात्क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने,
प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥१३॥

गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गलनिधि-
र्दयालुहेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो
मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥

महेशोऽयं विष्णुः सुकविरविरिन्दुः कमलजः
क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।
कुजस्तारः शुक्रो गुरुरुडुबुधोऽगुश्च धनदो
यमः पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥

मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः।
करौ शक्रः कट्यमवनिरुदरं भाति दशनं
गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥१६ ॥

अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः
करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् ।
स्मितः स्यात्तन्मध्येऽप्युदितरविबिम्बोपमरुचिः
स्थिता सिद्धिर्वामे मतिरितरगाचामरकरा ॥१७॥

समन्तात्तस्यासन्प्रवरमुनिसिद्धाः सुरगणाः
प्रशंसन्तीत्यग्रे विविधनुतिभिः साञ्जलिपुटाः ।
विडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-
र्गणक्रीडामोदप्रमुदविकटाद्यैः सहचरैः ॥१८॥

वशित्वाद्यष्टादशदिगखिलाल्लोलमनुवाग्-
दृतिः पादूःखड्गोऽञ्जनरसबलाः सिद्धय इमाः ।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्युखलया,
गणेशं सेवन्तेऽप्यतिनिकटसूपायनकराः ॥१९॥

मृगाङ्कास्या रम्भाप्रभृतिगणिका यस्य पुरतः
सुसंगीतं कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।
मुदः पारो नात्रेत्यनुपमपदे दोर्विगलिता
स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥२०॥

हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे
गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे
नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥२१॥

अयं सुप्रासादे सुर इव निजानन्दभुवने
महान् श्रीमानाद्ये लघुतरगृहे रङ्कसदृशः।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः ॥२२॥

अमुष्मिन्सन्तुष्टे गजवदन एवापि विबुधे
ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः ।
दयालुहेरम्बो न च भवति यस्मिंश्च पुरुषे
यथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥२३॥

वरेण्यो भूशुण्डिर्भृगुगुरुकुजमुद्गलमुखा-
ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपराः ।
गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं
विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥

मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषदः
स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः
रुतः शुद्धो मर्त्यो भवति दुरिताद्विस्मय इति ॥२५॥

बहिर्द्वारस्योर्ध्वं गजवदनवर्षोन्धनमयं
प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र निहतम् ।
प्रभावात्तन्मूर्त्या भवति सदनं मङ्गलमयं
त्रिलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥२६॥

सिते भाद्रे मासि प्रतिशरदि मध्याह्नसमये
मृदो मूर्तिं कृत्वा गणपतितिथौ दुण्ढिसदृशीम् ।
समर्चत्युत्साहः प्रभवति महान् सर्वसदने
विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ॥२७॥

तथा ह्येक: श्लोको वरयति महिम्नो गणपतेः
कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्सम्प्रपठिते ।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं
यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम् ॥२८॥

गजवदन विभो यद्वर्णितं वैभवं ते
त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।
त्वमसि च करुणायाः सागरः कृत्स्नदाता-
प्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥२९॥

सुस्तोत्रं प्रपठतु नित्यमेतदेव
स्वानन्दं प्रतिगमनेऽप्ययं सुमार्गः ।
सन्चिन्त्य स्वमनसि तत्पदारविन्दं
स्थाप्याग्रे स्तवनफलं नतीः करिष्ये ॥३०॥

गणेशदेवस्य माहात्म्यमेत
द्यः श्रावयेद्वापि पठेच्च तस्य ।
क्लेशा लयं यान्ति लभेच्च शीघ्रं
स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥३१॥

॥ इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नः स्तोत्रं सम्पूर्णम् ॥

← महा गणपति सहस्रनाम स्तोत्रम् / Maha Ganapati Sahashranama Stotram
श्री गणेश स्तवराज स्तोत्र / Shri Ganesh Stavraj Stotra →

🕉 श्री गणेश जी के अन्य ग्रंथ

🕉

श्रीगणेशभुजङ्गस्तोत्रम् / Shri Ganesh Bhujanga Stotram

→
🕉

श्री सिद्धिविनायक स्तोत्रम् / Shri Siddhivinayak Stotram

→
🕉

महा गणपति सहस्रनाम स्तोत्रम् / Maha Ganapati Sahashranama Stotram

→
📖

श्री गणेश चालीसा / Ganesh Chalisa

→
🕉

गणेश द्वादश नाम स्तोत्र / Ganesh Dwadash Naam Stotra

→
🕉

श्री गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं / Shri Ganesha Pancharatnam – Mudakaratta Modakam

→

🔍 खोजें

📚 संग्रह

🙏 स्तुती 22 📖 चालीसा संग्रह 11 🪔 आरती संग्रह 10 🕉 Blog 4

🕉 देवी-देवता

🕉️ श्री हनुमान जी → 🔱 श्री शिव जी → 🪈 श्री कृष्ण जी → 🌸 माँ दुर्गा → 🕉️ श्री गणेश जी → 🏹 श्री राम जी → 🪷 माँ लक्ष्मी →

🕐 हाल की पोस्ट

🕉 हमारे साथ श्री रघुनाथ तो किस बात की चिंता 📿 माँ काली के 11 शक्तिशाली मंत्र / 11 Powerful Mantras of Ma Kali 🙏 श्री काली स्तुतिः ब्रह्मा कृतम् / Sri Kali Stuti Brahma Krutam ⚔️ काली पञ्च बाण स्तोत्र / Kali Pancha Baan Stotra 🕉 देवी काली की अष्टोत्तर शतनामावली / Devi Kali 108 Names 🕉 देवी काली सहस्रनाम स्तोत्रम् / Devi Kali Sahasra Naam Stotram
🕉 Bhakti

आपकी भक्ति यात्रा का केंद्र

हमारे साथ अपनी भक्ति यात्रा को और भी सुंदर बनाएं। यहाँ आपको विभिन्न देवी-देवताओं की चालीसाएँ, आरतियाँ, स्तुतियाँ और त्यौहारों की जानकारी मिलेगी।

देवी-देवता

  • 🕉️ श्री हनुमान जी
  • 🔱 श्री शिव जी
  • 🪈 श्री कृष्ण जी
  • 🌸 माँ दुर्गा
  • 🕉️ श्री गणेश जी
  • 🏹 श्री राम जी

संग्रह

  • 📖 चालीसा संग्रह
  • 🪔 आरती संग्रह
  • 🙏 स्तुति संग्रह
  • 📿 मंत्र संग्रह
  • 📚 कथाएँ

त्यौहार

  • 🎊 नवरात्रि
  • 🪔 दीपावली
  • 🎨 होली
  • 🪈 जन्माष्टमी
  • 🕉️ गणेश चतुर्थी
  • 🔱 महाशिवरात्रि
ॐ © 2026 Bhakti — सर्वाधिकार सुरक्षित | गोपनीयता नीति जय श्री राम 🙏