ॐ श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः॥ १ ॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः।
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः॥ २ ॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः॥ ३ ॥
कौसलेयः खरध्वंसी विराधवधपण्डितः।
विभीषणपरित्राता हरकोदण्डखण्डनः॥ ४ ॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः॥ ५ ॥
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम्।
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः॥ ६ ॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः।
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः॥ ७ ॥
अहल्याशापशमनः पितृभक्तो वरप्रदः।
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः॥ ८ ॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः॥ ९ ॥
सर्वदेवादिदेवश्च मृतवानरजीवनः।
मायामारीचहन्ता च महादेवो महाभुजः॥ १० ॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः॥ ११ ॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः।
आदिदेवो महादेवो महापूरुष एव च॥ १२ ॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः॥ १३ ॥
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः।
मायामानुषचारित्रो महादेवादिपूजितः॥ १४ ॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः॥ १५ ॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः।
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः॥ १६ ॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः।
परं ज्योतिः परंधाम पराकाशः परात्परः॥ १७ ॥
परेशः पारगः पार सर्वदेवात्मकः परः॥ १८ ॥
॥ इति श्रीरामाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥