🕉
Bhakti
आपकी भक्ति यात्रा का केंद्र
  • मुख्य पृष्ठ
  • चालीसा संग्रह
  • आरती संग्रह
  • स्तुति संग्रह
  • Blog
🕉
श्री राम जी

आदित्य हृदय स्तोत्र / Aaditya Hridaya Stotram

23 June 2026

॥ विनियोगः ॥
ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि:
अनुष्टुप्छन्दः आदित्यह्रदयभूतो

भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया
ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः

॥ पूर्व पिठिता ॥

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥ १ ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ ।
उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥ २ ॥

राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌ ।
येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥ ३ ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ ।
जयावहं जपं नित्यमक्षयं परमं शिवम्‌ ॥ ४ ॥

सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्‌ ॥ ५ ॥

॥ मूल -स्तोत्र ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ ।
पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌ ॥ ६ ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: ।
एष देवासुरगणांल्लोकान्‌ पाति गभस्तिभि: ॥ ७ ॥

एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: ।
महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥ ८ ॥

पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।
वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥ ९ ॥

आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान्‌ ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥ १० ॥

हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान्‌ ।
तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्‌ ॥ ११ ॥

हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: ।
अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥ १२ ॥

व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥ १३ ॥

आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:।
कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥ १४ ॥

नक्षत्रग्रहताराणामधिपो विश्वभावन: ।
तेजसामपि तेजस्वी द्वादशात्मन्‌ नमोऽस्तु ते ॥ १५ ॥

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: ।
ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥ १६ ॥

जयाय जयभद्राय हर्यश्वाय नमो नम: ।
नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥ १७ ॥

नम उग्राय वीराय सारंगाय नमो नम: ।
नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥ १८ ॥

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥ १९ ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥ २० ॥

तप्तचामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥

नाशयत्येष वै भूतं तमेष सृजति प्रभु: ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥ २२ ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्‌ ॥ २३ ॥

देवाश्च क्रतवश्चैव क्रतुनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥ २४ ॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन्‌ पुरुष: कश्चिन्नावसीदति राघव ॥ २५ ॥

पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्‌ ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥

अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्‌ ॥ २७ ॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्‌ तदा ॥
धारयामास सुप्रीतो राघव प्रयतात्मवान्‌ ॥ २८ ॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌ ।
त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥ २९ ॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्‌ ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्‌ ॥ ३० ॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥

|| इत्यार्षे श्रीमद्रामायणे वाल्मिकिये आदिकाव्ये युद्धकाण्डे पस्चाधिक शततम सर्ग: ||

← श्री राम अष्टोत्तरशतनाम स्तोत्रम् / Shri Ram Ashtottar Shatnaam Stotram
श्री सूक्त पाठ / Shri Sukt Path →

🕉 श्री राम जी के अन्य ग्रंथ

🕉

श्रीरामसहस्रनामम् श्रीमदानन्दरामायणे / Shri Ram Sahasra Naam

→
🙏

श्री राम स्तुति / Shri Ram Stuti

→
🕉

श्री रामाष्टकम् / Shri Ram Ashtakama

→
🕉

श्री राम अष्टोत्तरशतनाम स्तोत्रम् / Shri Ram Ashtottar Shatnaam Stotram

→
🕉

श्री राम मङ्गलाशसनम् / Shri Ram Mangala Shashnam

→
🕉

श्री राम रक्षा स्तोत्रम् / Shri Ram Raksha Stotram

→

🔍 खोजें

📚 संग्रह

🙏 स्तुती 21 📖 चालीसा संग्रह 11 🪔 आरती संग्रह 10 🕉 Blog 2

🕉 देवी-देवता

🕉️ श्री हनुमान जी → 🔱 श्री शिव जी → 🪈 श्री कृष्ण जी → 🌸 माँ दुर्गा → 🕉️ श्री गणेश जी → 🏹 श्री राम जी → 🪷 माँ लक्ष्मी →

🕐 हाल की पोस्ट

🕉 सूर्य सहस्रनाम / Surya Sahasranaam 🕉 सूर्यकवचम / Surya Kavacham 🕉 सूर्य अष्टकम / Surya Ashtakam 🪔 श्री सूर्य देव आरती / Shri Surya Dev Aarti 📖 श्री सूर्य देव चालीसा / Shri Surya Dev Chalisa 🕉 जय रामेश्वर जय नागेश्वर वैद्यनाथ केदार हरे / Jai Raneshwar Jai Nageshwar
🕉 Bhakti

आपकी भक्ति यात्रा का केंद्र

हमारे साथ अपनी भक्ति यात्रा को और भी सुंदर बनाएं। यहाँ आपको विभिन्न देवी-देवताओं की चालीसाएँ, आरतियाँ, स्तुतियाँ और त्यौहारों की जानकारी मिलेगी।

देवी-देवता

  • 🕉️ श्री हनुमान जी
  • 🔱 श्री शिव जी
  • 🪈 श्री कृष्ण जी
  • 🌸 माँ दुर्गा
  • 🕉️ श्री गणेश जी
  • 🏹 श्री राम जी

संग्रह

  • 📖 चालीसा संग्रह
  • 🪔 आरती संग्रह
  • 🙏 स्तुति संग्रह
  • 📿 मंत्र संग्रह
  • 📚 कथाएँ

त्यौहार

  • 🎊 नवरात्रि
  • 🪔 दीपावली
  • 🎨 होली
  • 🪈 जन्माष्टमी
  • 🕉️ गणेश चतुर्थी
  • 🔱 महाशिवरात्रि
ॐ © 2026 Bhakti — सर्वाधिकार सुरक्षित | गोपनीयता नीति जय श्री राम 🙏