🕉
Bhakti
आपकी भक्ति यात्रा का केंद्र
  • मुख्य पृष्ठ
  • चालीसा संग्रह
  • आरती संग्रह
  • स्तुति संग्रह
  • Blog
🕉
श्री राम जी

श्रीरामसहस्रनामम् श्रीमदानन्दरामायणे / Shri Ram Sahasra Naam

23 June 2026

॥ श्रीपार्वत्युवाच ॥
श्रोतुमिच्छामि देवेश तदहं सर्वकामदम् ।
नाम्नां सहस्रं मां ब्रूहि यदस्ति मयि ते दया ॥

॥ श्रीमहादेव उवाच ॥
अथ वक्ष्यामि भो देवि रामनामसहस्रकम् ।
श‍ृणुष्वैकमनाः स्तोत्रं गुह्याद्गुह्यतरं महत् ॥

ऋषिर्विनायकश्चास्य ह्यनुष्टुप् छन्द उच्यते ।
परब्रह्मात्मको रामो देवता शुभदर्शने ॥

ॐ अस्य श्रीरामसहस्रनाममालामन्त्रस्य विनायक ऋषिः ।
अनुष्टुप् छन्दः । श्रीरामो देवता ।
महाविष्णुरिति बीजम् । गुणभृन्निर्गुणो महानिति शक्तिः ।
सच्चिदानन्दविग्रह इति कीलकम् ।
श्रीरामप्रीत्यर्थे जपे विनियोगः ॥

॥ अङ्गुलिन्यासः ॥
ॐ श्रीरामचन्द्राय अङ्गुष्ठाभ्यां नमः ।
सीतापतये तर्जनीभ्यां नमः ।
रघुनाथाय मध्यमाभ्यां नमः ।
भरताग्रजाय अनामिकाभ्यां नमः ।
दशरथात्मजाय कनिष्ठिकाभ्यां नमः ।
हनुमत्प्रभवे करतलकरपृष्ठाभ्यां नमः ॥

॥ हृदयादिन्यासः ॥
ॐ श्रीरामचन्द्राय हृदयाय नमः ।
सीतापतये शिरसे स्वाहा ।
रघुनाथाय शिखायै वषट् ।
भरताग्रजाय कवचाय हुम् ।
दशरथात्मजाय नेत्रत्रयाय वौषट् ।
हनुमत्प्रभवे अस्त्राय फट् ॥

॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलस्पर्धि नेत्रं प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनेसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

सौवर्णमण्डपे दिव्ये पुष्पके सुविराजिते ।
मूले कल्पतरोः स्वर्णपीठे सिंहाष्टसंयुते ॥

मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम् ।
रामं नीलोत्पलश्यामं द्विभुजं पीतवाससम् ॥

स्मितवक्त्रं सुखासीनं पद्मपत्रनिभेक्षणम् ।
किरीटहारकेयूरकुण्डलैः कटकादिभिः ॥

भ्राजमानं ज्ञानमुद्राधरं वीरासनस्थितम् ।
स्पृशन्तं स्तनयोरग्रे जानक्याः सव्यपाणिना ॥

वसिष्ठवामदेवाद्यैः सेवितं लक्ष्मणादिभिः ।
अयोध्यानगरे रम्ये ह्यभिषिक्तं रघूद्वहम् ॥

एवं ध्यात्वा जपेन्नित्यं रामनामसहस्रकम् ।
हत्याकोटियुतो वापि मुच्यते नात्र संशयः ॥

॥ अथ सहस्रनामस्तोत्रप्रारम्भः ॥
ॐ रामः श्रीमान्महाविष्णुर्जिष्णुर्देवहितावहः ।
तत्त्वात्मा तारकब्रह्म शाश्वतः सर्वसिद्धिदः ॥ १ ॥

राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः ।
रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः ॥ २ ॥

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः ।
जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ ३ ॥

विश्वामित्रप्रियो दाता शत्रुजिच्छत्रुतापनः ।
सर्वज्ञः सर्ववेदादिः शरण्यो वालिमर्दनः ॥ ४ ॥

ज्ञानभव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः ।
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसः प्रतापवान् ॥ ५ ॥

द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः ।
विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥ ६ ॥

ईशः खड्गधरः श्रीमान् कौसल्येयोऽनसूयकः ।
विपुलांसो महोरस्कः परमेष्ठी परायणः ॥ ७ ॥

सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः ।
लोकेशो लोकवन्द्यश्च लोकात्मा लोककृद्विभुः ॥ ८ ॥

अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः ।
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥ ९ ॥

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः ।
सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥ १० ॥

सौम्यो महर्षिः कोदण्डः सर्वज्ञः सर्वकोविदः ।
कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥ ११ ॥

भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः ।
सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥ १२ ॥

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः ।
स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥ १३ ॥

धीरो दान्तो घनश्यामः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥ १४ ॥

सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः ।
यज्ञस्वरूपो यज्ञेशो जरामरणवर्जितः ॥ १५ ॥

वर्णाश्रमगुरुर्वर्णी शत्रुजित्पुरुषोत्तमः ।
शिवलिङ्गप्रतिष्ठाता परमात्मा परापरः ॥ १६ ॥

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः ।
अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥ १७ ॥

गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।
अभिवाद्यो महाकायो विश्वकर्मा विशारदः ॥ १८ ॥

विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः ।
कल्याणः प्रह्वतिः कल्पः सर्वेशः सर्वकामदः ॥ १९ ॥

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः ।
लोकाध्यक्षो महाकार्यो विभीषणवरप्रदः ॥ २० ॥

आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः ।
भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥ २१ ॥

सुखदः कारणं कर्ता भवबन्धविमोचनः ।
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥ २२ ॥

संसारतारको रामः सर्वदुःखविमोक्षकृत् ।
विद्वत्तमो विश्वकर्ता विश्वकृद्विश्वकर्म च ॥ २३ ॥

नित्यो नियतकल्याणः सीताशोकविनाशकृत् ।
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥ २४ ॥

मारीचमथनो रामो विराधवधपण्डितः ।
दुःस्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥ २५ ॥

महाधनुर्महाकायो भीमो भीमपराक्रमः ।
तत्त्वस्वरूपस्तत्त्वज्ञस्तत्त्ववादी सुविक्रमः ॥ २६ ॥

भूतात्म भूतकृत्स्वामी कालज्ञानी महावपुः ।
अनिर्विण्णो गुणग्रामो निष्कलङ्कः कलङ्कहा ॥ २७ ॥

स्वभावभद्रः शत्रुघ्नः केशवः स्थाणुरीश्वरः ।
भूतादिः शंभुरादित्यः स्थविष्ठः शाश्वतो ध्रुवः ॥ २८ ॥

कवची कुण्डली चक्री खड्गी भक्तजनप्रियः ।
अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः ॥ २९ ॥

अनुत्तमोऽप्रमेयात्मा सर्वात्मा गुणसागरः ।
रामः समात्मा समगो जटामुकुटमण्डितः ॥ ३० ॥

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः ।
लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥ ३१ ॥

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः ।
अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बलिः ॥ ३२ ॥

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः ।
हंसो मरीचिर्गोविन्दो रत्नगर्भो महद्द्युतिः ॥ ३३ ॥

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः ।
जानकीवल्लभः श्रीमान् प्रकटः प्रीतिवर्धनः ॥ ३४ ॥

संभवोऽतीन्द्रियो वेद्यो निर्देशो जाम्बवत्प्रभुः ।
मदनो मन्मथो व्यापी विश्वरूपो निरञ्जनः ॥ ३५ ॥

नारायणोऽग्रणी साधुर्जटायुप्रीतिवर्धनः ।
नैकरूपो जगन्नाथः सुरकार्यहितः प्रभुः ॥ ३६ ॥

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः ।
वसुदः सुभुजो नैकमायो भव्यः प्रमोदनः ॥ ३७ ॥

चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः ।
अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥ ३८ ॥

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् ।
वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥ ३९ ॥

अतुलः सात्त्विको धीरः शरासनविशारदः ।
ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥ ४० ॥

वैकुण्ठः प्राणिनां प्राणः कमलः कमलाधिपः ।
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥ ४१ ॥

कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः ।
मायावी व्यापको व्यापी रेणुकेयबलापहः ॥ ४२ ॥

पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः ।
लोकत्रयाश्रयो लोकभरितो भरताग्रजः ॥ ४३ ॥

श्रीधरः सङ्गतिर्लोकसाक्षी नारायणो विभुः ।
मनोरूपी मनोवेगी पूर्णः पुरुषपुङ्गवः ॥ ४४ ॥

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः ।
तेजोधरो धराधरश्चतुर्मूर्तिर्महानिधिः ॥ ४५ ॥

चाणूरमथनो वन्द्यः शान्तो भरतवन्दितः ।
शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः ॥ ४६ ॥

लोकोर्ध्वगः शेषशायी क्षीराब्धिनिलयोऽमलः ।
आत्मज्योतिरदीनात्मा सहस्रार्चिः सहस्रपात् ॥ ४७ ॥

अमृतांशुर्महीगर्तो निवृत्तविषयस्पृहः ।
त्रिकालज्ञो मुनिः साक्षी विहायसगतिः कृती ॥ ४८ ॥

पर्जन्यः कुमुदो भूतावासः कमललोचनः ।
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥ ४९ ॥

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः ।
सनातनतमो मेघश्यामलो राक्षसान्तकः ॥ ५० ॥

दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः ।
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ॥ ५१ ॥

उत्तमः सात्विकः सत्यः सत्यसन्धस्त्रिविक्रमः ।
सुवृत्तः सुगमः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ५२ ॥

दामोदरोऽच्युतः शार्ङ्गी वामनो मथुराधिपः ।
देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥ ५३ ॥

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः ।
कालस्वरूपी कालात्मा कालः कल्याणदः कलिः ॥ ५४ ॥

संवत्सरो ऋतुः पक्षो ह्ययनं दिवसो युगः ।
स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः ॥ ५५ ॥

अनादिनिधनः सर्वलोकपूज्यो निरामयः ।
रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः ॥ ५६ ॥

सर्वदुःखातिगो विद्याराशिः परमगोचरः ।
शेषो विशेषो विगतकल्मषो रघुपुङ्गवः ॥ ५७ ॥

वर्णश्रेष्ठो वर्णभाव्यो वर्णो वर्णगुणोज्ज्वलः ।
कर्मसाक्षी गुणश्रेष्ठो देवः सुरवरप्रदः ॥ ५८ ॥

देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ।
सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः ॥ ५९ ॥

मनोगुप्तिरहङ्कारः प्रकृतिः पुरुषोऽव्ययः ।
न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः ॥ ६० ॥

लक्ष्मीविश्वम्भरो भर्ता देवेन्द्रो बलिमर्दनः ।
बाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥ ६१ ॥

देवाग्रणीः शिवध्यानतत्परः परमः परः ।
सामगेयः प्रियः शूरः पूर्णकीर्तिः सुलोचनः ॥ ६२ ॥

अव्यक्तलक्षणो व्यक्तो दशास्यद्विपकेसरी ।
कलानिधिः कलानाथः कमलानन्दवर्धनः ॥ ६३ ॥

पुण्यः पुण्याधिकः पूर्णः पूर्वः पूरयिता रविः ।
जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥ ६४ ॥

जयी जितारिः सर्वादिः शमनो भवभञ्जनः ।
अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ ६५ ॥

आशुः शब्दपतिः शब्दगोचरो रञ्जनो लघुः ।
निःशब्दपुरुषो मायो स्थूलः सूक्ष्मो विलक्षणः ॥ ६६ ॥

आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् ।
सनातनतमः स्रग्वी पेशलो विजितांबरः ॥ ६७ ॥

शक्तिमान् शङ्खभृन्नाथो गदाधररथाङ्गभृत् ।
निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥ ६८ ॥

सनातनः सहस्राक्षः शतमूर्तिर्घनप्रभः ।
हृत्पुण्डरीकशयनः कठिनो द्रव एव च ॥ ६९ ॥

सूर्यो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः ।
अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरस्तुतः ॥ ७० ॥

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥ ७१ ॥

शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी ।
नरो नारायणः श्यामः कपर्दी नीललोहितः ॥ ७२ ॥

रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः ।
मातामहो मातरिश्वा विरिञ्चिर्विष्टरश्रवाः ॥ ७३ ॥

अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः ।
वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥ ७४ ॥

निदाघस्तपनो मेघः शुक्रः परबलापहृत् ।
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ ७५ ॥

रामो नीलोत्पलश्यामो ज्ञानस्कन्दो महाद्युतिः ।
कबन्धमथनो दिव्यः कम्बुग्रीवः शिवप्रियः ॥ ७६ ॥

सुखी नीलः सुनिष्पन्नः सुलभः शिशिरात्मकः ।
असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥ ७७ ॥

पवित्रपादः पापारिर्मणिपूरो नभोगतिः ।
उत्तारणो दुष्कृतिहा दुर्धर्षो दुःसहो बलः ॥ ७८ ॥

अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः ।
भगो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥ ७९ ॥

उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः ।
नक्षत्रमानी नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ८० ॥

चतुर्वर्गफलं वर्णशक्तित्रयफलं निधिः ।
निधानगर्भो निर्व्याजो निरीशो व्यालमर्दनः ॥ ८१ ॥

श्रीवल्लभः शिवारंभः शान्तो भद्रः समञ्जयः ।
भूशायी भूतकृद्भूतिर्भूषणो भूतभावनः ॥ ८२ ॥

अकायो भक्तकायस्थः कालज्ञानी महापटुः ।
परार्धवृत्तिरचलो विविक्तः श्रुतिसागरः ॥ ८३ ॥

स्वभावभद्रो मध्यस्थः संसारभयनाशनः ।
वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ ८४ ॥

सुरेन्द्रः कारणं कर्मकरः कर्मी ह्यधोक्षजः ।
धैर्योऽग्रधुर्यो धात्रीशः सङ्कल्पः शर्वरीपतिः ॥ ८५ ॥

परमार्थगुरुर्दृष्टिः सुचिराश्रितवत्सलः ।
विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञेशो यज्ञपालकः ॥ ८६ ॥

प्रभुर्विष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ।
केशवः केशिहा काव्यः कविः कारणकारणम् ॥ ८७ ॥

कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः ।
आदिकर्ता वराहश्च वामनो मधुसूदनः ॥ ८८ ॥

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः ।
विश्वकर्ता महायज्ञो ज्योतिष्मान्पुरुषोत्तमः ॥ ८९ ॥

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।
नारसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः ॥ ९० ॥

आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः ।
गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥ ९१ ॥

पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः ।
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥ ९२ ॥

संन्यासी शास्त्रतत्त्वज्ञो मन्दिरो गिरिशो नतः ।
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥ ९३ ॥

भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ।
कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ ९४ ॥

बदरीनिलयः शान्तस्तपस्वी वैद्युतः प्रभुः ।
भूतावासो महावासो श्रीनिवासः श्रियः पतिः ॥ ९५ ॥

तपोवासो मुदावासः सत्यवासः सनातनः ।
पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥ ९६ ॥

पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः ।
पूर्णरूपः कालचक्रप्रवर्तनसमाहितः ॥ ९७ ॥

नारायणः परञ्ज्योतिः परमात्मा सदाशिवः ।
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली ॥ ९८ ॥

किरीटी कुण्डली हारी मेखली कवची ध्वजी ।
योद्धा जेता महावीर्यः शत्रुघ्नः शत्रुतापनः ॥ ९९ ॥

शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः ।
सारथी सात्त्विकः स्वामी सामवेदप्रियः समः ॥ १०० ॥

पवनः संहितः शक्तिः सम्पूर्णाङ्गः समृद्धिमान् ।
स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिदायकः ॥ १०१ ॥

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ।
सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ॥ १०२ ॥

वैकुण्ठः पुण्डरीकाक्षः सर्वदेवनमस्कृतः ।
सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ॥ १०३ ॥

सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ।
अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः ॥ १०४ ॥

निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ।
सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ॥ १०५ ॥

अधिकारी विभुर्नित्यः परमात्मा सनातनः ।
अचलो निश्चलो व्यापी नित्यतृप्तो निराश्रयः ॥ १०६ ॥

श्यामी युवा लोहिताक्षो दीप्त्या शोभितभाषणः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १०७ ॥

सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
कालात्मा भगवान् कालः कालचक्रप्रवर्तकः ॥ १०८ ॥

नारायणः परञ्ज्योतिः परमात्मा सनातनः ।
विश्वकृद्विश्वभोक्ता च विश्वगोप्ता च शाश्वतः ॥ १०९ ॥

विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ।
सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः ॥ ११० ॥

सर्वेश्वरः सर्वशर्वः सर्वदाऽऽश्रितवत्सलः ।
सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः ॥ १११ ॥

अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः ।
अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः ॥ ११२ ॥

नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी ।
जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः ॥ ११३ ॥

कर्ता धाता विधाता च सर्वेषां पतिरीश्वरः ।
सहस्रमूर्धा विश्वात्मा विष्णुर्विश्वदृगव्ययः ॥ ११४ ॥

पुराणपुरुषः श्रेष्ठः सहस्राक्षः सहस्रपात् ।
तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः ॥ ११५ ॥

परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः ।
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥ ११६ ॥

अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ।
नित्यः सर्वगतः स्थाणू रुद्रः साक्षी प्रजापतिः ॥ ११७ ॥

हिरण्यगर्भः सविता लोककृल्लोकभुग्विभुः ।
ओङ्कारवाच्यो भगवान् श्रीभूलीलापतिः प्रभुः ॥ ११८ ॥

सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ।
स्वामी सुशीलः सुलभः सर्वगः सर्वशक्तिमान् ॥ ११९ ॥

नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी ।
कृपापीयूषजलधिः शरण्यः सर्वशक्तिमान् ॥ १२० ॥

श्रीमान्नारायणः स्वामी जगतां प्रभुरीश्वरः ।
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ॥ १२१ ॥

रामो रामश्च कृष्णश्च बौद्धः कल्की परात्परः ।
अयोध्येशो नृपश्रेष्ठः कुशबालः परन्तपः ॥ १२२ ॥

लवबालः कञ्जनेत्रः कञ्जाङ्घ्रिः पङ्कजाननः ।
सीताकान्तः सौम्यरूपः शिशुजीवनतत्परः ॥ १२३ ॥

सेतुकृच्चित्रकूटस्थः शबरीसंस्तुतः प्रभुः ।
योगिध्येयः शिवध्येयः शास्ता रावणदर्पहा ॥ १२४ ॥

श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः ।
अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान् ॥ १२५ ॥

एवमादीनि नामानि ह्यसङ्ख्यान्यपराणि च ।
एकैकं नाम रामस्य सर्वपापप्रणाशनम् ॥ १२६ ॥

सहस्रनामफलदं सर्वैश्वर्यप्रदायकम् ।
सर्वसिद्धिकरं पुण्यं भुक्तिमुक्तिफलप्रदम् ॥ १२७ ॥

मन्त्रात्मकमिदं सर्वं व्याख्यातं सर्वमङ्गलम् ।
उक्तानि तव पुत्रेण विघ्नराजेन धीमता ॥ १२८ ॥

सनत्कुमाराय पुरा तान्युक्तानि मया तव ।
यः पठेच्छृणुयाद्वापि स तु ब्रह्मपदं लभेत् ॥ १२९ ॥

तावदेव बलं तेषां महापातकदन्तिनाम् ।
यावन्न श्रूयते रामनामपञ्चाननध्वनिः ॥ १३० ॥

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
शरणागतघाती च मित्रविश्वासघातकः ॥ १३१ ॥

मातृहा पितृहा चैव भ्रूणहा वीरहा तथा ।
कोटिकोटिसहस्राणि ह्युपपापानि यान्यपि ॥ १३२ ॥

संवत्सरं क्रमाज्जप्त्वा प्रत्यहं रामसन्निधौ ।
निष्कण्टकं सुखं भुक्त्वा ततो मोक्षमवाप्नुयात् ॥ १३३ ॥

श्रीरामनाम्नां परमं सहस्रकं पापापहं सौख्यविवृद्धिकारकम् ।
भवापहं भक्तजनैकपालकं स्त्रीपुत्रपौत्रप्रदमृद्धिदायकम् ॥

इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये
राज्यकाण्डे पूर्वार्धे श्रीरामसहस्रनामकथनं नाम प्रथमः सर्गः ॥

← श्री राम मङ्गलाशसनम् / Shri Ram Mangala Shashnam
श्री राम भुजंग प्रयात स्तोत्रम् / Shri Ram Bhujanga Prayaat Stotram →

🕉 श्री राम जी के अन्य ग्रंथ

🕉

आदित्य हृदय स्तोत्र / Aaditya Hridaya Stotram

→
🙏

श्री राम स्तुति / Shri Ram Stuti

→
🕉

श्री राम नाम तारक / Shri Rama Nama Tarakam

→
🕉

श्री रामाष्टकम् / Shri Ram Ashtakama

→
🪔

श्री रामचन्द्र जी आरती / Shri Ram Aarti

→
🕉

श्री राम अष्टोत्तरशतनाम स्तोत्रम् / Shri Ram Ashtottar Shatnaam Stotram

→

🔍 खोजें

📚 संग्रह

🙏 स्तुती 21 📖 चालीसा संग्रह 11 🪔 आरती संग्रह 10 🕉 Blog 2

🕉 देवी-देवता

🕉️ श्री हनुमान जी → 🔱 श्री शिव जी → 🪈 श्री कृष्ण जी → 🌸 माँ दुर्गा → 🕉️ श्री गणेश जी → 🏹 श्री राम जी → 🪷 माँ लक्ष्मी →

🕐 हाल की पोस्ट

🕉 सूर्य सहस्रनाम / Surya Sahasranaam 🕉 सूर्यकवचम / Surya Kavacham 🕉 सूर्य अष्टकम / Surya Ashtakam 🪔 श्री सूर्य देव आरती / Shri Surya Dev Aarti 📖 श्री सूर्य देव चालीसा / Shri Surya Dev Chalisa 🕉 जय रामेश्वर जय नागेश्वर वैद्यनाथ केदार हरे / Jai Raneshwar Jai Nageshwar
🕉 Bhakti

आपकी भक्ति यात्रा का केंद्र

हमारे साथ अपनी भक्ति यात्रा को और भी सुंदर बनाएं। यहाँ आपको विभिन्न देवी-देवताओं की चालीसाएँ, आरतियाँ, स्तुतियाँ और त्यौहारों की जानकारी मिलेगी।

देवी-देवता

  • 🕉️ श्री हनुमान जी
  • 🔱 श्री शिव जी
  • 🪈 श्री कृष्ण जी
  • 🌸 माँ दुर्गा
  • 🕉️ श्री गणेश जी
  • 🏹 श्री राम जी

संग्रह

  • 📖 चालीसा संग्रह
  • 🪔 आरती संग्रह
  • 🙏 स्तुति संग्रह
  • 📿 मंत्र संग्रह
  • 📚 कथाएँ

त्यौहार

  • 🎊 नवरात्रि
  • 🪔 दीपावली
  • 🎨 होली
  • 🪈 जन्माष्टमी
  • 🕉️ गणेश चतुर्थी
  • 🔱 महाशिवरात्रि
ॐ © 2026 Bhakti — सर्वाधिकार सुरक्षित | गोपनीयता नीति जय श्री राम 🙏