🕉
Bhakti
आपकी भक्ति यात्रा का केंद्र
  • मुख्य पृष्ठ
  • चालीसा संग्रह
  • आरती संग्रह
  • स्तुति संग्रह
  • Blog
🕉
श्री शिव जी

श्री शिव महिम्न स्तोत्र / Shri Shiv Mahimna Stotra

5 July 2026

॥ पुष्पदंत उवाच ॥
महिम्नः पारन्ते परमविदुषो यद्यसदृशी ।
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ॥
अथावाच्यः सर्वः स्वमतिपरिमाणावधि गृणन् ।
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥

अतीतः पन्थानं तव च महिमा वाङ्मनसयो: ।
रतदव्यावृत्या यं चकितमभिधत्ते श्रुतिरपि ।।
स कस्य स्तोतव्यः कतिविधिगुणः कस्य विषयः ।
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ 2 ॥

मधुस्फीता वाचः परमममृतं निर्मितवत: ।
स्तवब्रह्मन्किवागपि सुरगुरोविस्मय पदम् ।।
मम त्वेतां वाणों गुणकथनपुण्येन भवतः ।
पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥ 3 ॥

तवैश्वर्यं तत्तज्जगदुदयरक्षा प्रलयकृत् ।
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासुतनुषु ॥
अभव्यानामस्मिन्वरद रमणीयामरमणीम् ।
विहन्तु व्याक्रोशीं विदधत इहैके जडधियः ॥ 4 ॥

किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनम् ।
किमाधारो धाता सृजति किमुपादान इति च ॥
अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः ।
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ 5 ॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां ।
मधिष्ठातारं किं भवविधिरनादृत्य भवति ॥
अनीशो वा कुर्याद्भुवनजनने कः परिकरो ।
यतोमन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ 6 ॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति ।
प्रभिन्न प्रस्थाने परमिदमदः पथ्यमिति च ॥
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां ।
नृमाणेको गम्यस्त्वमसि पयसामर्णव इव ॥ 7 ॥

महोक्षः खट्वांग म्परशुरजिनं भस्म फणिनः ।
कपालंचेतीयत्तव वरद तन्त्रोपकरणम् ॥
सुरास्तां तामृद्धिं दधति तु भवद्भ्द्ध प्रणिहिताम् ।
न हि स्वात्मारामं विषय मृगतृष्णा भ्रमयति ।। 8 ।।

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध वमिदम् ।
परोधौव्याध्रौव्ये जगति गदति व्यस्तविषये ॥
समस्तेऽप्येतस्मिन्पुरमथन तैविस्मित इव ।
स्तुवज्ञ्जिद्देमि त्वां न खलु ननु धृष्टा मुखरता ।। 9 ।।

तवैश्वर्यं यत्नाद्यदुपरिविरंचिर्हरिरधः ।
परिच्छेत्तु यातावनलमनलस्कन्धवपुषः ॥
ततोभक्ति श्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् ।
स्तयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।। 10 ।।

अयत्नादापाद्यत्रिभुवनमवैरव्यतिकरम् ।
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ॥
शिरः पद्मश्रेणोरचितचरणाम्भोरु हबलेः ।
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर वियस्फूर्जितमिदम् ॥ 11 ॥

अमुष्य त्वत्सेवा समधिगतसारं भुजवनम् ।
बलाकैलासेऽपि त्वदधिवसतौविक्रमयतः ॥
अलभ्या पातालेऽप्यलसचलितांगु ष्ठशिरसि ।
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।। 12 ।।

यदृद्धि सुत्राम्णो वरद! परमोच्चैरपि सती ।
मधश्चक्र बाणः परिजनविधैयस्त्रिभुवनः ॥
नतच्चित्रं तस्मिन्वरिवसिरित्वच्चरणयोः ।
न कस्याप्युन्नत्यं भवति शिरसस्त्वय्यवनतिः ॥ 13 ॥

अकाण्ड: ब्रह्माण्ड क्षयचकितदेवासुरकृपा ।
विधेयस्याऽसीद्यस्त्रिनयन विषं संह तवतः ।।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो ।
विकारोऽपिश्लाघ्यो भुवनभयभगंव्यसनिनः ॥ 14 ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे ।
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् ।
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ।। 15 ।।

मही पादाघाताद्व्रजति सहसा संशयपदम् ।
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ॥
मुहुर्योदौस्थ्यं यात्यनिभृतजटाताडिततटा ।
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ 16 ॥

वियद्व्यापीतारागणगुणितफेनोद्गमरुचिः ।
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ॥
जगद्वीपाकारं जलधिवलयं तेन कृतमिति ।
त्यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः ।। 17 ।।

रथः क्षोणी यन्ता शतधृतिनगेन्द्रो धनुरथा ।
रथांगेचन्द्राकौं रथचरणपाणिः शर इति ॥
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः ।
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ।। 18 ।।

हरिस्ते साहस्त्र कमलबलिमाधाय पदयो ।
र्यदेकोने तस्मिन्निजमुदहर कमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा ।।
त्रयाणां रक्षायं त्रिपुरहर जागति जगताम् ॥ 19 ॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताम् ।
क्व कर्म प्रध्वस्तं फलतिपुरुषाराधनमृते ॥
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम् ।
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ 20 ॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां ।
सृवीणामात्विज्यं शरणद सदस्याः सुरगणाः ।।
क्रतुन षस्त्वत्तः क्रतुफल विधानव्यसनिनो ।
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥ 21 ॥

प्रजानाथं नाथ प्रसभमभिकं स्त्वां दुहितरम् ।
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।।
धनुः पाणेर्यातं दिवमपि सपत्नाकृतममुम् ।
त्रसन्तन्तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ 22 ॥

स्वलावण्याशंसा धृतधनुषमह वाय तृणवत् ।
पुरः प्लुष्टं दृष्ट्वापुरमथन पुष्पायुधमपि ॥
यदिस्त्रैणं देवो यमनिरतदेहार्ध-घटनाद् ।
अवैति त्वामद्धावत वरद मुग्धा युवतयः ॥ 23 ॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः ।
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ।।
अमंगल्यं शीलं तव भवतु ना मैवमखिलम् ।
तथापि स्मर्तॄणां वरद परमं मंगलमसि ।। 24 ।।

मनः प्रत्यविचत्त सविधमवधायात्तमरुतः ।
प्रहष्यद्रोमाणः प्रमदसलिल्लोत्संगितदृशः ।।
यदालोक्याह लावं ह्रद इव निमज्ज्यामृतमये ।
यधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ 25 ॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वंहुतवह ।
स्त्वमापरत्वं व्योमत्वमुधरणिरात्मा त्वमिति च ॥
परिच्छिन्नामेवं त्वयि परिणता ब्रिभ्रतिगिरम् ।
न विद्मस्तत्तत्वंवयमिह तु यत्त्वं न भवसि ॥ 26 ॥

त्रयीं तिस्रो वृत्तिस्त्रि भुवनमथोत्रीनपिसुरां ।
नकाराद्यं र्वर्णैस्त्रिभिरभिदधत्तीर्णविकृतिः ।।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः ।
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ 27 ॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महां स्तथा ।
भीमेशानाविति यदभिधानाष्टकमिदम् ॥
अमुष्मिन्प्रत्येकं प्रविचरति देवः श्रुतिरपि ।
प्रियायास्मैधाम्नेप्रणिहितनमस्योऽस्मि भवते ॥ 28 ॥

नमोनेदिष्ठाय प्रियदव दविष्ठाय च नमो ।
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ॥
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो ।
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥ 29 ॥

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः ।
प्रबलतम से तत्संहारे हराय नमो नमः ॥
जनसुखकृते सत्त्वोद्रिक्तौमृडाय नमो नमः ।
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ 30 ॥

कृशपरिणतिचेतः क्लेशवश्वं क्व चेदम् ।
क्व च तव गुणसीमोल्लङ् घिनीशश्ववृद्धिः ।।
इति चकितममन्दीकृत्य मां भक्तिराधाद् ।
वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥ 31 ॥

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे ।
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ।।
लिखति यदि गृहीत्वा शारदा सर्वकालं ।
तदपि तव गुणानामीश पारं न याति ॥ 32 ॥

असुरसुरमुनीन्द्रं रचितस्येन्दुमौले ।
ग्रंथित गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगुणवरिष्ठः पुष्पदन्ताभिधानो ।।
रुचिरमलघुवृत्तेः स्तोत्रमेतच्चकार ॥ 33 ॥

अहरहरनवद्य धूर्जटेः स्तोत्रमेतत् ।
पठति परमभक्त्या शुद्धचित्तः पुमान्य: ।।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र ।
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ 34 ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ 35 ॥

दीक्षादानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ॥ 36 ॥

कुसुमदशननामा सर्वगन्धर्वराजः ।
शशिधरवरमौलेर्देवदेवस्य दासः ।।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् ।
स्तवनमिदमकार्षीवृदिव्यदिव्यं महिम्नः ॥ 37 ॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुम् ।
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेतः ।।
ग्रजति शिवसमीपं किन्नरैः स्तूयमानः ।
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ 38 ॥

आसमाप्त मिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम् ।
अनौपम्यं मनोहारि सर्व मीश्वर वर्णनम् ॥ 39 ॥

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ 40 ॥

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ 41 ॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ 42 ॥

श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन ।
स्तोत्रेण किल्विष-हरेण हर-प्रियेण ।।
कण्ठस्थितेन पठितेन समाहितेन ।
सुप्रीणितो भवति भूतपतिर्महेशः ॥ 43 ॥

।। इति श्री पुष्पदंत विरचितं श्री शिव महिम्न स्तोत्र समाप्तम् ।।

← श्रीरुद्राष्टकम / Shri Rudrashtakam
महामृत्युंजय मंत्र: अर्थ, महत्व, जाप विधि, लाभ एवं सम्पूर्ण जानकारी →

🕉 श्री शिव जी के अन्य ग्रंथ

🕉

श्रीरुद्राष्टकम / Shri Rudrashtakam

→
🕉

शिव पंचाक्षर स्तोत्र / Shiv Panchakshar Stotra

→
🕉

काल भैरव अष्टक / Shri Kaalbhairav Ashtak

→
📿

ॐ नमः शिवाय मंत्र

→
📿

शिव बीज मंत्र / Shiv Beej Mantra

→
🪔

शिव जी की आरती / Shiv Aarti

→

🔍 खोजें

📚 संग्रह

🙏 स्तुती 22 📖 चालीसा संग्रह 11 🪔 आरती संग्रह 10 🕉 Blog 4

🕉 देवी-देवता

🕉️ श्री हनुमान जी → 🔱 श्री शिव जी → 🪈 श्री कृष्ण जी → 🌸 माँ दुर्गा → 🕉️ श्री गणेश जी → 🏹 श्री राम जी → 🪷 माँ लक्ष्मी →

🕐 हाल की पोस्ट

🕉 हमारे साथ श्री रघुनाथ तो किस बात की चिंता 📿 माँ काली के 11 शक्तिशाली मंत्र / 11 Powerful Mantras of Ma Kali 🙏 श्री काली स्तुतिः ब्रह्मा कृतम् / Sri Kali Stuti Brahma Krutam ⚔️ काली पञ्च बाण स्तोत्र / Kali Pancha Baan Stotra 🕉 देवी काली की अष्टोत्तर शतनामावली / Devi Kali 108 Names 🕉 देवी काली सहस्रनाम स्तोत्रम् / Devi Kali Sahasra Naam Stotram
🕉 Bhakti

आपकी भक्ति यात्रा का केंद्र

हमारे साथ अपनी भक्ति यात्रा को और भी सुंदर बनाएं। यहाँ आपको विभिन्न देवी-देवताओं की चालीसाएँ, आरतियाँ, स्तुतियाँ और त्यौहारों की जानकारी मिलेगी।

देवी-देवता

  • 🕉️ श्री हनुमान जी
  • 🔱 श्री शिव जी
  • 🪈 श्री कृष्ण जी
  • 🌸 माँ दुर्गा
  • 🕉️ श्री गणेश जी
  • 🏹 श्री राम जी

संग्रह

  • 📖 चालीसा संग्रह
  • 🪔 आरती संग्रह
  • 🙏 स्तुति संग्रह
  • 📿 मंत्र संग्रह
  • 📚 कथाएँ

त्यौहार

  • 🎊 नवरात्रि
  • 🪔 दीपावली
  • 🎨 होली
  • 🪈 जन्माष्टमी
  • 🕉️ गणेश चतुर्थी
  • 🔱 महाशिवरात्रि
ॐ © 2026 Bhakti — सर्वाधिकार सुरक्षित | गोपनीयता नीति जय श्री राम 🙏