श्रीमत सौभाग्यजननीं, स्तौमि लक्ष्मीं सनातनीं ।
सर्वकामफलावाप्ति साधनैक सुखावहां ॥ १ ॥
श्री वैकुंठ स्थिते लक्ष्मि, समागच्छ मम अग्रत: ।
नारायणेन सह मां, कृपा दृष्ट्या अवलोकय ॥ २ ॥
सत्यलोक स्थिते लक्ष्मि, त्वं समागच्छ सन्निधिम ।
वासुदेवेन सहिता, प्रसीद वरदा भव ॥ ३ ॥
श्वेतद्वीपस्थिते लक्ष्मि, शीघ्रम आगच्छ सुव्रते ।
विष्णुना सहिते देवि, जगन्मात: प्रसीद मे ॥ ४ ॥
क्षीराब्धि संस्थिते लक्ष्मि, समागच्छ समाधवे ।
त्वत कृपादृष्टि सुधया, सततं मां विलोकय ॥ ५ ॥
रत्नगर्भ स्थिते लक्ष्मि, परिपूर्ण हिरण्यमयि ।
समागच्छ समागच्छ, स्थित्वा सु पुरतो मम ॥ ६ ॥
स्थिरा भव महालक्ष्मि, निश्चला भव निर्मले ।
प्रसन्ने कमले देवि, प्रसन्ना वरदा भव ॥ ७ ॥
श्रीधरे श्रीमहाभूते, त्वदंतस्य महानिधिम ।
शीघ्रम उद्धृत्य पुरत, प्रदर्शय समर्पय ॥ ८ ॥
वसुंधरे श्री वसुधे, वसु दोग्ध्रे कृपामयि ।
त्वत कुक्षि गतं सर्वस्वं, शीघ्रं मे त्वं प्रदर्शय ॥ ९ ॥
विष्णुप्रिये। रत्नगर्भे, समस्त फलदे शिवे ।
त्वत गर्भ गत हेमादीन, संप्रदर्शय दर्शय ॥ १० ॥
अत्रोपविश्य लक्ष्मि, त्वं स्थिरा भव हिरण्यमयि ।
सुस्थिरा भव सुप्रीत्या, प्रसन्न वरदा भव ॥ ११ ॥
सादरे मस्तकं हस्तं, मम तव कृपया अर्पय ।
सर्वराजगृहे लक्ष्मि, त्वत कलामयि तिष्ठतु ॥ १२ ॥
यथा वैकुंठनगर, यथैव क्षीरसागरे ।
तथा मद भवने तिष्ठ, स्थिरं श्रीविष्णुना सह ॥ १३ ॥
आद्यादि महालक्ष्मि, विष्णुवामांक संस्थिते ।
प्रत्यक्षं कुरु मे रुपं, रक्ष मां शरणागतं ॥ १४ ॥
समागच्छ महालक्ष्मि, धन्य धान्य समन्विते ।
प्रसीद पुरत: स्थित्वा, प्रणतं मां विलोकय ॥ १५ ॥
दया सुदृष्टिं कुरुतां मयि श्री: ।
सुवर्णदृष्टिं कुरु मे गृहे श्री: ॥ १६ ॥
॥ इति श्री महालक्ष्मी हृदय स्तोत्र सम्पूर्णम् ॥